Friday, June 26, 2015

Mahavidya Sangrah,,,1

http://dushmahavidyaupaasnaa.files.wordpress.com/2011/11/mantras-in-hindi1.jpg

नवदुर्गोपनिषत्
उक्तं चाथर्वणरहस्ये ।
विनियोगः- ॐ अस्य श्रीनवदुर्गामहामन्त्रस्य किरातरुपधर ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः किरातरुप धरेश्वरो नवदुर्गागायत्री देवता, ॐ बीजं, स्वाहा शक्तिः, क्लीं कीलकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
करन्यासः- हंसनी ह्रां अंगुष्ठाभ्यां नमः । शंखिनी ह्रीं तर्जनीभ्यां नमः । चक्रिणी ह्रूं मध्यमाभ्यां नमः । गदिनी ह्रैं अनामिकाभ्यां नमः । शरिणी ह्रौं कनिष्ठिकाभ्यां नमः । त्रिशूलधारिणी ह्रः करतलकरपृष्ठाभ्यां नमः ।
ह्रदयादिन्यासः- हंसनी ह्रां हृदयादि नमः । शंखिनी ह्रीं शिरसे स्वाहा । चक्रिणी ह्रूं शिखायै वषट् । गदिनी ह्रैं कवचाय हुम् । शरिणी ह्रौं नेत्रत्रयाय वौषट् । त्रिशूलधारिणी ह्रः अस्त्राय फट् । 
ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ।
।।ध्यानम्।।
अरिशंख कृपाण खेट बाणान्सुधनुष्क शूलमथ कर्तरीं दधाना ।
भजतां महिषोत्तमांगसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ।।
हेमप्रख्यामिन्दु खण्डान्तमौलिं शंखारिष्टाभीति हस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गां दिव्यरुपां नमामि ।।
ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै तेजस्वि
नावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः । ॐ हरिः ॐ ।

।। पञ्चपूजा ।।
ॐ लं पृथिव्यात्मने गन्ध समर्पयामि । ॐ हं आकाशात्मने पुष्पं समर्पयामि । ॐ यं वाय्वात्मने धूपं समर्पयामि । ॐ रं अग्न्यात्मने दीपं समर्पयामि । ॐ वं अमृतात्मने अमृतनैवेद्यं समर्पयामि ।
ॐ ऐं ह्रीं श्रीं उत्तिष्ठ पुरुष किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय शमय स्वाहा । ॐ नमश्चण्डिकायै नमः ।
हेतुकं पूर्वपीठे तु आग्नेय्यां त्रिपुरान्तकम् । दक्षिणे चाग्निवैतालं नैऋत्यां यमजिह्वकम् ।।४।।
कालाख्यं वारुणे पीठे वायव्यां तु करालिनम् । उत्तरे एकपादं तु ईशान्यां भीमरुपिणम् ।।५।।
आकाशे तु निरालम्बं पाताले वडवानलम् । यथा ग्रामे तथाऽरण्ये रक्ज़ मां बटुकस्तथा ।।६।।
सर्वमंगलमांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।७।।

ॐ ह्रीं श्रीं दुं दुर्गायै नमः ।
प्रयोग विषये
ब्राह्मण्यै नमः । वारुणि खल्वि माहेश्वर्यै नमः । कुल्यवासिन्यै कुमारिण्यै नमः । जयन्तीपुरलाहिवाराहिण्यै नमः । अष्ट-महाकालि माहेश्वर्यै नमः । चित्रकूट इन्द्राण्यै नमः  त्रिपुरब्रह्मचारिण्यै नमः । एक वृक्षशुभिन्यै महालक्ष्म्यै नमः । त्रिपुरब्रह्माण्डनायक्यै नमः । एतानि क्ष क्षं त्रैलोक्यवशंकराणि । बीजाक्षराणि ॐ ह्रीं कुरु कुरु हुं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं सकलनरमुखभ्रमरीम् । ॐ क्लीं ह्रीं सकल राजमुख भ्रमरीम् । ॐ क्रौं सौं सकलदेवतामुख भ्रमरीम् । ॐ क्लीं क्लीं सकलकामिनीमुख भ्रमरीम् । ॐ ईं सौः सकलदेशमुख भ्रमरीम् । हसखफ्रें त्रैलोक्यचित्त भ्रमरीम् । ॐ क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः । उग्रभैरवादि-भूत-प्रेत पिशाचचित्त भ्रमरीं हुं क्षुं हुं क्लीं राजमन्त्र-यन्त्र भ्रमरीं हुं क्षुं हुं क्लीं सिद्ध-मन्त्र-यन्त्र-तन्त्र भ्रमरीं हुं क्षुं हुं क्लीं साध्य मन्त्र-यन्त्र-तन्त्र भ्रमरीं सकलसुरासुर सर्व-मन्त्र-यन्त्र-तन्त्र भ्रमरीं सर्वक्षोभिणी सर्वक्लेदिनी सकल मनोन्मादकरी आं ह्रीं क्रौं परम-कल्याणी महायोगिनी ।
ॐ महाविद्यां प्रवक्ष्यामि महादेवेन निर्मिताम् । चिन्तितां किरातरुपेण मारणां हृदयनन्दिनीम् ।।८।।
उत्तमा सर्व-विद्यानां सर्वभूतवशंकरी । सर्व-पापक्षयकरी सर्व-शत्रु-निवारिणी । ॐ कुलकरी गोत्रकरी धनकरी धान्यकरी बलकरी यशस्करी विद्याकरी उत्साह-बल-वर्धिनी भूतानां विजृम्णिणी स्तम्भिनी मोहिनी द्राविणी सर्व-मन्त्र-प्रभञ्जिनी सर्व-विद्या-प्रभेदिनी सर्व-ज्वरोत्सादकरी ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकमर्द्धमासिकं मासिकं द्विमासिकं त्रिमासिकं षाण्मासिकं सांवत्सरिकं वातिकं पैत्तिकं श्लेष्मिकं सान्निपातिकं सन्तत-ज्वरं शीत-ज्वरम् उष्ण-ज्वरम् विषम-ज्वरं ताप-ज्वरं च गण्डमाला लूततालु वर्णानां त्रासिनी सर्पाणां त्रासिनी सर्वान् त्रासिनी शिरःशुलाक्षिशूलकर्णशूलसन्तशूल बाहुशूल हृदयशूल कुक्षिशूल पक्षशूल गुदशूल गुल्मशूल लिंगशूल योनिशूल पादशूल सर्वांगशूल विस्फोटकादि इति आत्मरक्षा परोक्ष प्रत्यक्षरक्षा अग्निरक्षा अघोररक्षा वायु रक्षा उदकरक्षा महान्धकारोल्का विद्युदनिलचरोशस्त्रास्त्रे मां रक्ष रक्ष स्वाहा 
 महादेवस्य तेजसां भयंकराविष्टदेवता बन्धयामि पन्थानुगतचौराद्रक्षते बन्धकस्य कण्टकं बन्धयामि महादेवस्य पञ्चशीर्षेण पाणिना महादेवस्य तेजसा सर्वशूलान् कहपिंगलेन कण्टक मयरुद्रांगी ॐ अं आं मातंगी इं ईं मातंगी उं ऊं मातंगी ऋं ॠं मातंगी लृं ॡं मातंगी एं ऐं मातंगी ओं औं मातंगी अं अः मातंगी स्वर स्वर ब्रह्मदण्ड विश्वर विश्वर रुद्रदण्ड प्रज्वल प्रज्वल वायुदण्ड प्रहर प्रहर इन्द्रदण्ड भक्ष भक्ष निऋतिदण्ड हिलि हिलि यमदण्ड नित्योपवादिनि हंसिनी शंखिनी चक्रिणी गदिनी शूलिनी त्रिशूलधारिणी हुं फट् स्वाहा । आयुर्विद्यां च सौभाग्यं धान्यं च धनमेव च । सदा शिवं पुत्रवृद्धिं देहि मे चण्डिके शुभे ।।९।।
अथातो मन्त्रपादा भवन्ति । ॐ छायायै स्वाहा । चतुरायै स्वाहा । हलि स्वाहा । पीलि स्वाहा । हरं स्वाहा । हरहरं स्वाहा । गन्धर्वाय स्वाहा । गन्धर्वाधिपतये स्वाहा । यक्षाय स्वाहा । यक्षाधिपतये स्वाहा । रक्षसे स्वाहा । रक्षोऽधिपतये स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । उल्कामुखी स्वाहा । रुद्रमुखी स्वाहा । रुद्रजटी स्वाहा । ब्रह्मविष्णुरुद्रतेजसे स्वाहा । या इमा भुत-प्रेत-पिशाच-राक्षस-नवग्रह- भूत-वेताल-शाकिनी-डाकिन्यः कूष्माण्डवासश्चत्वारो राजपुरुषः कलह-पुरुषो वा तेषां दिशं बन्धयामि । दुर्दिशोबन्धयामि । हस्तौ बन्धयामि । श्रोत्रे बन्धयामि । जिह्वां बन्धयामि । घ्राणं बन्धयामि । बुद्धिं बन्धयामि । गतिं बन्धयामि । मतिं बन्धयामि । अन्तरिक्षं बन्धयामि । पातालं बन्धयामि । यममुखेन पञ्चयोजन-विस्तीर्णं बन्धयामि । रुद्रो बध्नातु । रुद्रमण्डलं रुद्रः सह-परिवारो देवता-प्रत्यधि-देवता-सहितं रुद्र-मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारिकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् ।। १० ।।
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ११ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि इन्द्रो देवता ऐरावतारुढो हेमवर्णो वज्रहस्त इन्द्रो बध्नातु । इन्द्रमण्डलमिन्द्रः सहपरिवारो देवता-प्रत्यधि-देवता सहित मिन्द्रमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १ ।। इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि अग्निर्देवता मेषारुढो रक्तवर्णो ज्वालाहस्तोऽग्निर्बध्नातु 
 अग्निमण्डलमग्निः सहपरिवारो देवता-प्रत्यधि-देवता सहित मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। २ ।। ॐ अग्निं दूत वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमो देवता महिषारुढो नीलवर्णो दण्डहस्तो यमो बध्नातु । यममण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ३ ।। ॐ यमाय सोमं सुनुत यमाय जुहूता हविः । यमं ह यज्ञोगच्छत्यग्निदूतो अरंकृतः ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि निर्ऋतिमण्डलं निर्ऋतिः सहपरिवारो देवता-प्रत्यधि-देवता सहितं निर्ऋतिमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष 
अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ४ ।। ॐ मोषुणः परापरा निर्ऋतिर्दुर्हणावधीत् । पदीष्ट तृष्णया सह ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि वरुणो देवता मकरारुढः श्वेतवर्णः पाशहस्तो वरुणो बध्नातु । वरुणमण्डलं वरुणः सहपरिवारो देवता-प्रत्यधि-देवता सहित वरुणमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ५ ।। ॐ इमं मे॰ ।। १ ।। तत्त्वा यामि॰ ।। २ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ३ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुर्देवता मृगारुढो धूम्रवर्णो ध्वजहस्तो वायुर्बध्नातु । वायुमण्डलं वायुः सहपरिवारो देवता-प्रत्यधि-देवता सहित वायुमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ६ ।। ॐ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । आवाँस्या वृणीमहे ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरो देवता अश्वारुढः पीतवर्णो गदाङ्कुशहस्तः कुबेरो बध्नातु । कुबेरमण्डलं कुबेरः सहपरिवारो देवता-प्रत्यधि-देवता सहित कुबेरमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष 
 अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ७ ।। ॐ सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो देदाशदस्मै ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ईशानो देवता वृषारुढः स्फटिकवर्णस्त्रिशूलहस्त ईशानो बध्नातु । ईशानमण्डलमीशानः सहपरिवारो देवता-प्रत्यधि-देवता सहित मीशानमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ८ ।। ॐ तमीसानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वायां दिशि ब्रह्मा देवता हंसारुढो रक्तवर्णः कमण्डलु-हस्तो ब्रह्मा बध्नातु । ब्रह्म-मण्डलं ब्रह्मा सहपरिवारो देवता-प्रत्यधि-देवता सहितं ब्रह्म-मण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ९ ।। ॐ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकि देवता कूर्मारुढः पद्महस्तो वास्तुकिः बध्नातु । वासुकिमण्डलं वासुकिः सहपरिवारो देवता-प्रत्यधि-देवता सहित वासुकिमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १० ।। ॐ नमो अस्तु सर्पेभ्यो॰ ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि विष्णुर्देवता गरुडारुढः श्यामवर्णश्चक्रहस्तो विष्णुर्बध्नातु । विष्णुमण्डलं विष्णुः सहपरिवारो देवता-प्रत्यधि-देवता सहित विष्णुमण्डलं प्रत्यक्षं बन्ध-बन्ध मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ११ ।। ॐ इदं विष्णुर्विचक्रमे॰ ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि इन्द्रः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु त्रिशूलको नाम राक्षसः शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि अग्निः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु मारीचको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। २ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि यमः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु एकपिङ्लको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ३ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ३ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैऋत्यां दिशि निऋतिः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु सत्यको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ४ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ४ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्रतीच्यां दिशि वरुणः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु लम्बको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ५ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ५ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि वायुः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु प्रलम्बको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ६ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ६ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि कुबेरः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु अश्वालको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ७ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ७ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि ईशानः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु उन्मत्तको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ८ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ८ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । उर्ध्वायां दिशि ब्रह्मा सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु आकाश वासी नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ९ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। ९ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अधस्ताद्दिशि वासुकिः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु पातालवासी नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। १० ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आवान्तरस्यां दिशि विष्णुः सहपरिवारो देवता-प्रत्यधि-देवतास्तद्दिक्षु महाभीमको नाम राक्षसस्तस्य अष्टादशकोटि भूत-प्रेत-पिशाच ब्रह्मराक्षस शाकिनी डाकिनी काकिनी हाकिनी याकिनी राकिनी वैतालकामिनीग्रहान् बन्धयामि मम सपरिवारकस्य सर्वतो मां रक्ष-रक्ष । अचलमचलमाक्रम्याक्रम्य महावज्र-कवचायास्त्राय राज-चौर-सर्प-सिंह-व्याघ्राग्नि मम सर्वोपद्रव नाशनाय । ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं क्लुं प्रों आं ह्रीं क्रौं हुं फट् स्वाहा ।। ११ ।। वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्मद्विषो जहि अव ब्रह्मदिषो जहि ।। २ ।।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । प्राच्यां दिशि । ॐ नमो भगवते इन्द्राणिवज्रहस्ताभ्यां सपरिवारकस्य सर्वतो रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । आग्नेय्यां दिशि । ॐ नमो भगवते अग्निज्वालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । याम्यां दिशि । ॐ नमो भगवते यमकालदण्डहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । नैर्ऋत्यां दिशि । ॐ नमो भगवते खड्गकंकालहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वारुण्यां दिशि । ॐ नमो भगवते वारुणिपाशहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । वायव्यां दिशि । ॐ नमो भगवते वायविवेधहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । कौबेर्यां दिशि । ॐ नमो भगवते कौबेरीगदांकुशहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ईशान्यां दिशि । ॐ नमो भगवते ईशानित्रिशूलडमरुहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ऊर्ध्वयां दिशि । ॐ नमो भगवते ब्रह्माणि स्रुक्-स्रुवकमण्डलल्वक्षसूत्रांकुशहस्तैः मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि । ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । ॐ नमो पातालवासिनि विषगलहस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । अवान्तरस्यां दिशि । ॐ नमो भगवते श्रीमहालक्ष्मी पद्मारुढा पद्महस्ताभ्यां मम सपरिवारकस्य सर्वतो मां रक्ष रक्ष हुंजटी स्वाहा । अव ब्रह्मद्विषो जहि ।
ॐ नमो भगवते रुद्राय नमः । ॐ नमो भगवते रुद्राय । शिरो रक्षतु ब्रह्माणी मुखं माहेश्वरी तथा कण्ठं रक्षतु वाराही ऐन्द्री चैव भुजद्वयम् ।। १ ।। चामुण्डा हृदयं रक्षेत्कुक्षिं रक्ज़ेच्च वारुणी । वैष्णवी रक्ष पादौ मे पृष्ठदेशे धनुर्धरी ।। २ ।। यथा ग्रामे तथा क्षेत्रे रक्षस्व मां पदे पदे । सर्व-मङ्ल-माङ्गल्ये शिवे सर्वार्थ-साधिके । शरण्य-त्र्यम्बके गौरि नारायणि नमोस्तुऽते ।। ३ ।।
ॐ ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे सिद्धचामुण्डेश्वरि गणेश्वरि क्षेत्रपाल नारसिंहि महालक्ष्मि सर्वतो दुर्गे हुं फट् स्वाहा । ॐ ऐं ह्रीं श्रीं दुं हुं फट् । कनक-वज्रवैदुर्य-मुक्तालङकृत-भूषणे एहि एहि आगच्छ आगच्छ मम कर्णे प्रविश्य भूत-भविष्य-वर्तमान-काल-ज्ञान दूरदृष्टि-दूर-श्रवणं ब्रुहि-ब्रुहि अग्नि-स्तम्भन-शत्रु-स्तम्भन शत्रु-मुख-स्तम्भन शत्रु-गति-स्तम्भन शत्रु-मति-स्तम्भन परेषांगति सर्वमति-शत्रूणां वाग्जृम्भणं स्तम्भनं कुरु कुरु शत्रु-कार्य-हानि-करि मम कार्यसिद्धिकरि शत्रूणामुद्योग-विध्वंसकरि वीरचामुण्डि निहाटकहाटक धारिणी नगरी-पुरी-पट्टणआस्थान संमोहिनी असाध्य-साधिनी । ॐ ह्रीं श्रीं देवि हन हुं फट् स्वाहा ।। १ ।।
ॐ आं ह्रीं सौं ऐं क्लीं ह्रूं सौः ग्लौं श्रीं क्रौं एहि एहि भ्रमराम्बा हि सकलजगन्मोहनाय मोहनाय सकलाण्डजपिण्डजान् भ्रामय भ्रामय जरा प्रजावशंकरि संमोहय संमोहय महामाये अष्टादशपीठरुपिणि अमलवरयूं स्फुर स्फुर प्रस्फुर प्रस्फुर कोटि-सूर्य-प्रभाभासुरि चन्द्रजटी मां रक्ष रक्ष मम शत्रून् भस्मीकुरु भस्मीकुरु विश्वमोहिनी हुं क्लीं हुं हुं फट् स्वाहा ।। २ ।।
ॐ नमो भगवते कामदेवाय इन्द्राय वसाबाणाय इन्द्र संदीपबाणाय क्लीं क्लीं संमोहनबाणाय ब्लूं ब्लूं संतापनबाणाय सः सः वशीकरणबाणाय कम्पित कम्पित हुं फट् स्वाहा । क्लीं नमो भगवते कामदेवाय श्रीं सर्व-जन-प्रियाय सर्व-जन-सम्मोहनाय ज्वल-ज्वल प्रज्वल-प्रज्वल हन-हन वद-वद तप-तप सम्मोहय सम्मोहय सर्व जनं मे वशं कुरु कुरु स्वाहा ।। ३ ।।
ॐ ह्रां श्रीं ष्णीं क्ष्म्प्रैं हूस्त्रौं सहस्राराय हुं फट् स्वाहा । ॐ नमो विष्णवे । ॐ नमो नारायणाय । ॐ जय जय गोपीजन-वल्लभाय स्वाहा । सहस्रार ज्वालावर्त क्ष्म्प्रौं हन-हन हुं फट् स्वाहा । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । श्रीमन्नारायणस्य चरणौ शरणं प्रपद्ये । श्रीमते नारायणाय नमः । उग्रवीरं महा-विष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंह भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।। ४ ।।
भगवन् सर्व-विजय सहस्राराय राजित । शरणं त्वां प्रपन्नोऽस्मि श्रीकरं श्रीसुदर्शनम् ।। ५ ।।
अरुणी वारुणी चैव सविग्रहनिवारिणी । सर्व-कर्मकरि । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा । ततो महाविद्या सिद्धयति । अशिक्षितं नोपयुञ्जीत । अहं न जाने न च पार्वतीश एक विंशतिवाराणि परिजाप्य शुचिर्भवेत् ।। ६ ।।
पत्रं पुष्पं फलं दद्यात् स्त्रियो वा पुरुषोऽपि वा । अवश्यं वशमित्याहुरात्मना च परेण वा ।। ७ ।। महाविद्यावतां पुंसां मनः क्षेत्रं करोति यः । सप्तरात्रौ व्यतीतायां शत्रूणां तद्विनश्यति ।। ८ ।। ॐ कुबेर ते मुखं रौद्रं नन्दिमानन्दिमावह । ज्वरं मृत्युभयं घोरं विषं नाशय मे ज्वर ।। ९ ।।
ॐ नमो भगवते रुद्राय हृदये अमृताभिवर्षाय मम ज्वर-रोग-शांति कुर-कुरु स्वाहा । ॐ काल-काल महा-काल काल-दण्ड नमोस्तुऽते । कालदण्ड-निपातेन भूम्यामन्तर्हितं ज्वरं हन्ति । लिखित्वा यस्तु पश्यति समुद्रस्योत्तरे तीरे मारीचो नाम राक्षसस्तस्य मूत्रपुरीषाभ्यां हुताशनं शमय शमय स्वाहा । हिमवत्युत्तरे पार्श्वे चपला नाम यक्षिणी । तस्या नूपुरशब्देन विशल्या भव गर्भिणी । जातवेदसे सुन वाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ।। १०
भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नः सूर्यः प्रचोदयात् ।। १ ।। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । प्रतिकूलकारिणी नश्येत् । अनुकूलकारिणी अस्तु । महा-देवी च विद्महे विष्णु-पत्नी च धीमहि । तन्नो लक्ष्मी प्रचोदयात् ।। २ ।।
ॐ ब्रूं ह्रीं श्रीं ब्रह्मकोशजी मां रक्ष-रक्ष हुं जटी स्वाहा । पञ्चम्यां च नवम्यां च दशम्यां च विशेषतः । पठित्वा तु महाविद्यां श्रीकामः सर्वदा पठेत् ।। ११ ।।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् । श्रीर्मे भजतु । अलक्ष्मीर्मे नश्यतु ।। १ ।। यदन्ति यच्च दूरके भयं विन्दति मामिह । पवमानवितज्जहि । यदुत्थितं दुःखं भवति तत्सर्वं शमय शमय स्वाहा ।। २ ।। ॐ गायत्र्यै स्वाहा । ॐ सावित्र्यै स्वाहा । ॐ सरस्वत्यै स्वाहा । तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि । तन्नः इन्द्रः प्रचोदयात् ।। ३ ।। तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ।। ४ ।। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ।। ५ ।। तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ।। ६ ।। तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नो षण्मुखः प्रचोदयात् ।। ७ ।। तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ।। ८ ।। वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ।। ९ ।। नारायणाय विद्महे वासुदरवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।। १० ।। मन्मथेशाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्ग प्रचोदयात् ।। ११ ।। वज्रनखाय विद्महे तीक्ष्णदँष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ।। १२ ।। भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ।। १३ ।। वैश्वानराय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ।। १४ ।। कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गेः प्रचोदयात् ।। १५ ।।
सहस्रपरमा देवी शतमूला शतांकुरा । सर्व हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ।। १२ ।। काण्डात्काण्डात्प्ररो हन्ती॰ । अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । शिरसा धारयिष्यामि रक्षस्व मां पदे पद ।। १३ ।। अत्रिणा त्वा क्रिमे हन्मिकण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः कृमीणा राजा अप्येषाः स्थपतिर्हतः । अथो माताऽथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णाः अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्यश्रुतस्य हविषो यथा तत्सत्यं यदमुं यमस्य जम्भयोः आदधामि तथा हि तत् । खण्फण्म्रसि ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रेण त्वाऽङ्गिरसा मनसा ध्यायामि । अघस्य त्वा धारया विध्यामि । अधरो मत्पद्यस्वासौ उत्तुद शिमिजा वरि तल्पेजे तल्प उत्तुद गिरी रनुप्रवेशय मरीचीरुपसंनुद यावदितः पुरस्तादुदयाति सूर्यः तावदितोऽमुं नाशय योऽस्मान् द्वेष्टि यं च वयं द्विष्मः खट् फट् जहि छिन्धि छिन्धि हन्धि कट् इति वाचः क्रूराणि परिबाहिणीदं नमस्ते अस्तु मा मा हि सीः द्विषन्तं मेऽभिनाशय तं मृत्यो मृत्यवे नय अरिष्टं रक्ष अरिष्टं भञ्ज भञ्ज स्वाहा ।
ॐ ह्रीं कृष्णवाससे नारसिंहवदे महाभैरवि ज्वल ज्वल विद्युज्ज्वलज्ज्वालाजिह्वे करालवदने प्रत्यङ्गिरे क्ष्म्रीं क्ष्म्यैं नमो नारायणाय घ्रिणुः सूर्यादित्यों सहस्रा हुं फट् । अव ब्रह्मद्विषोजहि । सर्पोलूक काक कङ्क कपोतादि वृश्चिकोग्रदंष्ट्राकरोग्रविषान्मे महा-भूत-प्रेत-पिशाच-रा्क्षस सकल-किल्विषादि महारोगविषाग्निरोगविषं कुरु-कुरु स्वाहा । अक्षिस्पन्दं च दुःस्वप्नं भुजस्पन्दं च दुर्मतिम् । दुश्चिह्नं दुर्गतिं रोगं भयं नाशय शांकरि ।। १४ ।।
महा-विद्यां कृतवतो योस्माकं द्वेष्टि योऽरिष्टं स्मरति यावदेकविंशतिं कृत्वा तावदधिकं नाशय । ब्रह्मविद्यामिमां देवि नित्यं सेवेत यः सुधीः । ऐहाकामुष्मिकं सौख्यं सिद्धयत्येव न संशयः ।। १५ ।। एनां विद्यां महा-विद्यां यो दूषयति मानवः । सो ऽवश्यं नाशमाप्नोति षण्मासादचिरेण वै ।। १६ ।। अग्रतः पृष्ठतः पार्श्वे ऊर्ध्वतो रक्ष मे सदा । चण्डघण्टा विरुपाक्षी त्वां भजे जगदीश्वरीम् ।। १७ ।। एवंविधां महाविद्यां त्रिसन्ध्यं स्तौति मानवः । दृष्ट्वा जनैर्दुष्टजनाः सर्वमोहवशं गताः ।। १८ ।। तामग्नि वर्णां तपसा ज्वलन्तीं वैरोचनी कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरां दुःशमनाये गताः ।। १९ ।। मातर्मे मधु कैटभघ्रि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्ड-मुण्डार्दिनि । निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ।। २० ।। कालदण्डपरं मृत्युविजया बन्धयाम्यत्हम् । पञ्चयोजनविस्तीर्णं मृत्योश्च मुख मण्डलम् । तस्माद्रक्ष महाविद्ये भद्रकालि नमोस्तुऽते ।। २१ ।।
अव ब्रह्मद्विषो जहि । वारिजलोचन-सहपरीगतिं वारयासुरकरनिकरैः पूरितमेघद्रुगानां दापितागोपकन्यके सहोदरवतु । अव ब्रह्मद्विषो जहि । ॐ ह्रीं श्रीं क्लीं सिद्धलक्ष्मी स्वाहा । ॐ क्लीं ह्रीं श्रीं ॐ आवहन्ती वितन्वाना कुर्वाणा चीरमात्मनः । वासा सि मम गावश्च अन्नपाने च सर्वदा । ततो मे श्रिय आनिरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृततत्वमायन् भवन्ति सत्या समिथा मितद्रौ श्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै संधियते प्रजया पशुभिर्य एवं वेद । ॐ ह्रीं श्रीं क्लीं क्लूं प्रों हुं फट् स्वाहा । अव ब्रह्मद्विषो जहि ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ।।

।। श्री गर्भ चण्डी ।।
(गौड मतेन लघुचण्डी पाठक्रमः)
तंत्रसाधना के अनुसार बीजाक्षरों का सम्पुट लोम-विलोम लगता है ।
।।गर्भकवचम्।।
ॐ ऐं ह्रीं क्लीं नमः शूलेन पाहिन नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्या निःस्वनेन च । मः न क्लीं ह्रीं ऐं ॐ ।। १ ।।
ॐ ऐं ह्रीं क्लीं नमः प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामेणनात्मशूलस्य उत्तरस्यां तथेश्वरि । मः न क्लीं ह्रीं ऐं ॐ ।। २ ।।
ॐ ऐं ह्रीं क्लीं नमः सौम्यानि यानि रुपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । मः न क्लीं ह्रीं ऐं ॐ ।। ३ ।।
ॐ ऐं ह्रीं क्लीं नमः खड्ग-शूल-गदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लव संगीनि तैरस्मान् रक्ष सर्वतः । मः न क्लीं ह्रीं ऐं ॐ ।। ४ ।।

।।गर्भऽर्गला।।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः,
ॐ एतत् ते वदनं सौम्यं लोचनत्रय भूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोस्तुऽते,
मः न च्चे वि यै डा मुं चा क्लीं ह्रीं ऐं ॐ ।। १ ।।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः,
ज्वालाकराल मृत्युग्रमशेषासुर सूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोस्तुऽते,
मः न च्चे वि यै डा मुं चा क्लीं ह्रीं ऐं ॐ ।। २ ।।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः,
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ।
मः न च्चे वि यै डा मुं चा क्लीं ह्रीं ऐं ॐ ।। ३ ।।
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः,
असुरास्रग् वसापंकचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ,
मः न च्चे वि यै डा मुं चा क्लीं ह्रीं ऐं ॐ ।। ४ ।।

।।गर्भ-शाप विमोचनमुत्कीलनं च।।
मूलमन्त्र से विन्यास, ध्यान व मानसोपचार से पूजन करें । मूल मन्त्र – “ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे क्लीं ह्रीं ऐं ॐ नमः स्वाहा” का यथाशक्ति जाप करें समर्पण पश्चात् उत्कीलन करें यथा -
“ॐ ह्रीं श्रीं क्लीं चण्डि सकलमन्त्राणां शापविमोचनं कुरु-कुरु स्वाहा ।”
तीन बार जपें
“ॐ श्री ह्रीं क्लीं चण्डि सप्तशतिके सर्वमन्त्राणां उत्कीलनं कुरु-कुरु स्वाहा ।” (तीन बार जपें)
।।गर्भ रात्रि-सूक्तम्।।
ॐ ऐं ह्रीं क्लीं नमः ब्रह्मोवाच मः न क्लीं ह्रीं ऐं ॐ ।। १ ।।
ॐ ऐं ह्रीं क्लीं नमः त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिताः ।। मः न क्लीं ह्रीं ऐं ॐ ।। २ ।।
ॐ ऐं ह्रीं क्लीं नमः अर्द्धमात्रास्थिता नित्या यानुर्च्चायां विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।। मः न क्लीं ह्रीं ऐं ॐ ।। ३ ।।
।। अथ गर्भ-चण्डी ।।विनियोगः-  अस्य श्रीगर्भचण्डीमाला मन्त्रस्य श्रीब्रह्मा विष्णु महेश्वरादि ऋषयः । गायत्र्युष्णिगनुष्टुप् छंदांसि । श्रीशक्तिस्वरुपिणी महाचण्डी देवता । ऐं बीजं । ह्रीं कीलकं । क्लीं शक्तीः । मम चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगः ।
ऋष्यादिन्यासः- ॐ अस्य श्रीगर्भचण्डीमाला मन्त्रस्य श्रीब्रह्मा विष्णु महेश्वरादि ऋषिभ्यो नमः शिरसि । गायत्र्युष्णिगनुष्टुप् छंदोभ्यो नमः मुखे । श्रीशक्तिस्वरुपिणी महाचण्डी देवतायै नमः हृदि । ऐं बीजाय नमः गुह्ये । ह्रीं कीलकाय नमः नाभौ । क्लीं शक्तये नमः पादयो । मम चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगाय नमः सर्वांगे ।
षडङ्ग-न्यास कर-न्यासअंग-न्यास
ॐ ह्रांअंगुष्ठाभ्यां नमः हृदयाय नमः
ॐ ह्रींतर्जनीभ्यां नमःशिरसे स्वाहा
ॐ ह्रूंमध्यमाभ्यां नमःशिखायै वषट्
ॐ ह्रैंअनामिकाभ्यां नमःकवचाय हुं
ॐ ह्रौंकनिष्ठिकाभ्यां नमःनेत्र-त्रयाय वौषट्
ॐ ह्रःकरतल-कर-पृष्ठाभ्यां नमःअस्त्राय फट्
।।ध्यानम्।।
शुद्ध स्फटिक संकाशां रवि विम्बाननां शिवाम् ।
अनेक शक्तिसंयुक्तां सिंहपृष्ठे निषेदुषीम् ।।
अंकुशं चाक्षसूत्रं च पाशपुस्तक धारिणीम् ।
मुक्ताहार समायुक्तां चण्डीं ध्याये चतुर्भुजाम् ।।
सितेन दर्पणाब्जेन वस्त्रालंकार भूषितम् ।
जटाकलाप संयुक्तां सुस्तनीं चन्द्रशेखराम् ।।
कटकैः स्वर्ण रत्नाढ्यैर्महावलय शोभिताम् ।
कम्बुकण्ठीं सु ताम्रोष्ठीं सर्पनूपुरधारिणीम् ।।
केयुर मेखलाद्यैश्च द्योतयंतीं जगत्-त्रयम् ।
एवं ध्याये महाचण्डीं सर्वकामार्थ सिद्धिदाम् ।।

चतुष्टय-मुद्रा का प्रदर्शन करना चाहियेः- १॰ पाश, २॰ अंकुश, ३॰ अक्षसूत्र तथा ४॰ पुस्तक ।
।। अथ पाठः ।।
ॐ ऐं ह्रीं क्लीं नमः ब्रह्मोवाच मः न क्लीं ह्रीं ऐं ॐ ।। १ ।।
ॐ ऐं ह्रीं क्लीं नमः यच्च किञ्चित् क्वचिद् अस्तु सदसद् वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा । मः न क्लीं ह्रीं ऐं ॐ ।। २ ।।
ॐ श्रीं नमः सम्मानिता ननादौच्चैः साट्टहासं मुहुर्मुहुः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं नमः । मः न श्रीं ॐ ।। ३ ।।
ॐ श्रीं नमः अर्द्धनिष्क्रान्तः एवासौ युध्यमानो महाऽसुरः ।
तया महाऽसिना देव्या शिरश्छित्वा निपातितः । मः न श्रीं ॐ ।। ४ ।।
ॐ श्रीं नमः दुर्गे स्मृता हरसि भीतिमशेष जन्तोः
स्वस्थै स्मृता मतिवमतीव शुभां ददासि ।
दारिद्रय दुःख भय हारिणि का त्वदन्या
सर्वोपकार करणाय सदाऽऽर्द्रचित्ता । मः न श्रीं ॐ ।। ५ ।।

ॐ क्लीं नमः इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः । मः न क्लीं ॐ ।। ६ ।।
ॐ क्लीं नमः इत्युक्तः सोऽभ्यधावत् तामसुरो धूम्रलोचनः ।
हुंकारेणैव तं भस्म सा चकाराम्बिका ततः । मः न क्लीं ॐ ।। ७ ।।
ॐ क्लीं नमः भृकुटी कुटिलात् तस्याः ललाटफलकाद् द्रुतम् ।
काली कराल वदना विनिष्क्रान्ताऽसि पाशिनी । मः न क्लीं ॐ ।। ८ ।।
ॐ क्लीं नमः ब्रह्रेश गुहविष्णुनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रमय तद्रुपैश्चण्डिकां ययुः मः न क्लीं ॐ ।। ९ ।।
ॐ क्लीं नमः अट्टाट्टहासमशिवं शिवदूती चकार ह ।
तैः शब्दैरसुरास्त्रेसुः शम्भुः कोपं परं ययौ । मः न क्लीं ॐ ।। १० ।।

ॐ क्लीं नमः एकैवाहं जगत्यत्र द्वितीया का ममापरा ?
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः । मः न क्लीं ॐ ।। ११ ।।
ॐ क्लीं नमः सर्वस्वरुपे सर्वेशे सर्व-शक्ति-समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तुऽते । मः न क्लीं ॐ ।। १२ ।।
ॐ क्लीं नमः देव्युवाच मः न क्लीं ॐ ।। १३ ।।
ॐ क्लीं नमः सर्वाबाधा विनिर्मुक्तो धन-धान्य सुतान्वितः ।
मनुष्यो मत्-प्रसादेन भविष्यति न संशयः । मः न क्लीं ॐ ।। १४ ।।
ॐ क्लीं नमः यत् प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन ।
मत्तस्तत् प्राप्यतां सर्वं परितुष्टा ददामि तत् । मः न क्लीं ॐ ।। १५ ।।

।। जय जय श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये सत्याः सन्तु मनसः कामाः ।।
गर्भरहस्य त्रयम
।।श्रीगर्भदेवी सूक्तम्।।
ॐ क्लीं नमः नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणतः स्मताम् । मः न क्लीं ॐ ।। १ ।।
ॐ क्लीं नमः रौद्रायै नमो नित्यायै गौर्य्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः । मः न क्लीं ॐ ।। २ ।।
ॐ क्लीं नमः कल्याण्यै प्रणतां वृद्धयै सिद्धयै कूर्म्यै नमो नमः ।
नैर्ऋते भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः । मः न क्लीं ॐ ।। ३ ।।
ॐ क्लीं नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः । मः न क्लीं ॐ ।। ४ ।।
ॐ क्लीं नमः अति सौम्याति रौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत प्रतिष्ठायै देव्यै कृतयै नमो नमः । मः न क्लीं ॐ ।। ५ ।।

।।गर्भरहस्य त्रयम।।
ॐ ह्रीं नमः गुरुपदेशविधिना पूजनीया प्रयत्नतः ।
मन्त्रोद्धार प्रयत्नेन ज्ञात्वा सा नृपात्मजः । मः न ह्रीं ॐ ।। १ ।।
ॐ श्री नमः प्रदक्षिणां नमस्कारान् कृत्वा मूर्घ्नि कृताञ्जलिः ।
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः । मः न ह्रीं ॐ ।। २ ।।
ॐ क्लीं नमः जगन्मातुश्चण्डिकाया कीर्तिता कामधेनवः ।
मेधां प्रज्ञां तथा श्रद्धां धारणां कान्तिमेव च । मः न क्लीं ॐ ।। ३ ।।

।।गर्भ सूत्र त्रयम् 
ॐ ऐं नमः ब्रह्म सरस्वती सूक्तं लक्ष्मीसूक्तं जनार्दनम् ह्रीं ॐ ।।
इस मन्त्र के एक लाख जप करें तथा सिद्ध करें -
“श्रीं श्रीं श्रीं ॐ नमः”

।। इति श्रीगर्भ-चण्डी ।।
____________________________
राहुकाल दुर्गापूजा विधानम्
राहुकाल की दक्षिण भारत में विशेष मान्यता है । राहुकाल में आसुरी शक्तियों का उदय होता है अतः अन्य शुभ कार्य नहीं किये जाते हैं । आसुरी शक्तिरयों के दमन हेतु व्यक्ति को जप पाठ एवं स्वाध्याय करना श्रेयस्कर होता है । राहुकाल में दुर्गा उपासना श्रेष्ठ फलदायिनी हैं । राहु का शिर एवं केतु का धड़ अलग-अलग है । अतः प्रचण्ड चण्डिका अर्थात् छिन्नमस्ता इस काल की विशेष अधिष्ठात्री देवी है । इसकी उपासना बिना दीक्षा के नहीं हो सकती समर्थ साधक ही कर सकते हैं । अतः नवार्ण मन्त्र जप एवं दुर्गा सप्तशती स्तोत्र पाठ सर्व सुगम उपासना है । समर्थ साधक वनदुर्गा, शूलिनी जातवेदा, शाँति, शबरी, ज्वालादुर्गा, लवणदुर्गा, आसुरीदुर्गा एवं दीपदुर्गा की उपासना करते हैं ।
राहुकाल समय निर्णय
राहुकाल की मान्यता दिन में ही है रात्रि में नहीं है । अतः दिनमान के आठ भाग करें उन आठ चौघड़ियों की गणना इस प्रकार करें । रविवार को ८वां भाग (१६.३० से १८ बजे) सोमवार को दूसरा भाग (७.३० से ९ बजे तक) मंगलवारको ७वां भाग (१५ से १६.३० बजे तक) बुधवार को ५वां भाग (१२ से १३.३० बजे तक) गुरुवार को छठा भाग (१३.३० से १५ बजे तक) शुक्रवार को चौथा भाग (१०.३० से १२ बजे तक) तथा शनिवार को तीसरा भाग (९ से १०.३० बजे तक) चौघड़िया राहुकाल होता है । यह समय ६ बजे सूर्योदय व सूर्यास्त के मध्य के अन्तर से बताया गया है । दिन छोटे-बड़े तथा स्थानीय अक्षांशों के कारण परिवर्तनीय है । अतः सूक्ष्मगणना पूरे दिनमान के अनुसार करें ।
साधना विधि
दुर्गापाठ रविवार को राहुकाल में प्रारम्भ कर सोमवार को प्रातः समाप्त किया जाता है । नवार्ण जप आदि तथा अन्त में अवश्य करें ।
जो साधक नित्य पाठ नहीं कर सकते हैं वे -
प्रथम दिन (रविवार) को संकल्प कर शापोद्धार आदि कर कवच, अर्गला तथा कीलक का पाठ करें । नवार्ण जप कर दुर्गासप्तशती को प्रथमाध्याय के श्लोक “सर्वमापोमयं जगत” तक पाठ करें ।
दूसरे दिन (सोमवार) को प्रथम अध्याय के शेष श्लोक व द्वितीय तथा तृतीय अध्याय के श्लोक “तद् वधाय तदाऽकरोत्” तक पाठ करें ।
तीसरे दिन (मंगलवार) को तृतीय अध्याय के शेष श्लोक, पूरा चतुर्थ अध्याय तथा पांचवें अध्याय के श्लोक “या देवि सर्वभूतेषु जातिरुपेण……” वाले श्लोक तक पाठ करें ।
चतुर्थ दिन (बुधवार) को पांचवें अध्याय के शेष श्लोक तथा छठे अध्याय में श्लोक “चकराम्बिका ततः” तक पाठ करें ।
पाँचवें दिन (गुरुवार) को छठे अध्याय के शेष श्लोक, पूरा सप्तम अध्याय तथा अष्टम अध्याय का श्लोक “ततस्ते हर्षमतुलमवापुस्त्रि त्रिदशाः नृप” तक पाठ करें ।
छठे दिन (शुक्रवार) को अष्टम अध्याय के शेष श्लोक, नवम, दशम पूरे अध्याय तथा एकादश अध्याय के श्लोक“ज्वालाकराग्र ………….” तक पाठ करें ।
सप्तम दिन (शनिवार) को सप्तशती के शेष पाठ  कर रहस्यादि करें । इनके अलावा नित्य कवच, अर्गला, कीलक तथा नवार्ण मंत्र जप १०८ बार आदि अंत में करना श्रेयष्कर रहता है ।
_______________________________________
श्रीचण्डी-ध्वज स्तोत्रम्
विनियोगः- अस्य श्री चण्डी-ध्वज स्तोत्र मन्त्रस्य मार्कण्डेय ऋषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रां बीजं, श्रीं शक्तिः, श्रूं कीलकं मम वाञ्छितार्थ फल सिद्धयर्थे विनियोगः ।
अंगन्यासः- श्रां, श्रीं, श्रूं, श्रैं, श्रौं, श्रः से हृदयादिन्यास व करन्यास करें ।
।। मूल-पाठ ।।
ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।
परमानन्दरुपिण्यै नित्यायै सततं नमः ।। १ ।।
नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २ ।।
रक्ष मां शरण्ये देवि धन-धान्य-प्रदायिनि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ३ ।।
नमस्तेऽस्तु महाकाली पर-ब्रह्म-स्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ४ ।।
नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ५ ।।
नमस्तेऽस्तु महासरस्वती परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ६ ।।
नमस्तेऽस्तु ब्राह्मी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ७ ।।
नमस्तेऽस्तु माहेश्वरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ८ ।।
नमस्तेऽस्तु च कौमारी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ९ ।।
नमस्ते वैष्णवी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १० ।।
नमस्तेऽस्तु च वाराही परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ११ ।।
नारसिंही नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १२ ।।
नमो नमस्ते इन्द्राणी परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १३ ।।
नमो नमस्ते चामुण्डे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १४ ।।
नमो नमस्ते नन्दायै परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १५ ।।
रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १६ ।।
नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १७ ।।
शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १८ ।।
शिवदूति नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। १९ ।।
नमस्ते भ्रामरी देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २० ।।
नमो नवग्रहरुपे परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २१ ।।
नवकूट महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २२ ।।
स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २३ ।।
श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २४ ।।
नमो भगवती देवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २५ ।।
दिव्ययोगिनी नमस्ते परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २६ ।।
नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २७ ।।
नमो नमस्ते सावित्री परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २८ ।।
जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। २९ ।।
मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरुपिणि ।
राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ।। ३० ।।
चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् ।
राजते सर्वजन्तूनां वशीकरण साधनम् ।। ३२ ।।
।। श्रीचण्डीध्वज स्तोत्रम् ।।.................................

No comments:

Post a Comment

#तंत्र #मंत्र #यंत्र #tantra #mantra #Yantra
यदि आपको वेब्सायट या ब्लॉग बनवानी हो तो हमें WhatsApp 9829026579 करे, आपको हमारी पोस्ट पसंद आई उसके लिए ओर ब्लाँग पर विजिट के लिए धन्यवाद, जय माँ जय बाबा महाकाल जय श्री राधे कृष्णा अलख आदेश 🙏🏻🌹

इस नवरात्रि को क्या करे और क्या है खास

जय मां बाबा की मित्रों आप सभी को  🌷🌷 *घट स्थापना का शुभ मुहूर्त* 🌷🌷 इस बार नवरात्र 3 अक्टूबर 2024 गुरुवार से  11 अक्टूबर 2024 शुक्रवार त...

DMCA.com Protection Status